फाल्गुनः

सुधाव्याख्या

फलति निष्पादयति । ‘फल निष्पत्तौ (भ्वा० प० से०) । ‘फलेर्गुक्च’ (उ० ३.५६) इत्युनन् गुगागमश्च । फल्गुनस्त्वर्जुने मासे नक्षत्रे फल्गुनी स्मृता' इति गोवर्धनानन्द: । प्रज्ञाद्यणि (५.४.३८) । वृद्धिः (७.२.११७) । ‘फाल्गुनस्त्वर्जुने मासे फाल्गुनी चास्य पूर्णिमा’ इति धरणिः । फल्गुनीभिर्युक्ता पौर्णमासी फाल्गुनी सास्मिन्नस्ति । फाल्गुनः । फाल्गुनिकश्च । फाल्गुनस्तु गुडाकेशे नदीजार्जुनभूरुहे । तपस्यसंज्ञमासे तत्पूर्णिमायां तु फाल्गुनी' । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः (४.२.२३) इति ठक् । पक्षेऽण् ।


प्रक्रिया