अरिष्टम्

सुधाव्याख्या

अरिष्टमिति । नास्ति रिष्टमत्र । न रिष्यते स्म हिंस्रैः इति वा । रिष हिंसायाम्' (भ्वा० प० से०) । क्तः (३.२.१०२) । अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः । अरिष्टमशुभे तक्रे सूतिकागार आसवे । शुभे मरणचिह्ने च' इति विश्वमेदिन्यौ ॥