मठः

सुधाव्याख्या

मठ इति । मठन्त्यत्र । ‘मठ मदनिवासयोः’ (भ्वा० प० से०) । हलश्च' (३.३.१२१) इति घञ् । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा मठति निवासयति । पचाद्यच् (३.१.१३४) ॥ छात्रोऽन्तेवासी आदिर्येषां परिव्राजकक्षपणकादीनां तेषां निलय: । बौद्धानां तु विहारोऽस्त्री ॥