गञ्जा

सुधाव्याख्या

गञ्जेति । गञ्जन्त्यस्याम् । ‘गजि शब्दार्थ:’ (भ्वा० प० से०) । ‘गुरोश्च हलः’ (३.३.१०३) इत्यः । ‘गञ्जा खनौ सुरागृहे । गञ्जः स्यात्पुंसि रीढाया भाण्डागारे तु न स्त्रियाम् इति विश्वमेदिन्यौ ॥