उपशल्यम्

सुधाव्याख्या

शल्यमुपगतः । प्रादिसमासः (वा० २.२.१८) ॥ ग्रामग्रहणं चोपलक्षणम् । अत एव उपकण्ठोपशल्ये द्वे' इति त्रिकाण्डशेषः ॥


प्रक्रिया

उप + शल्य + सु - प्रादयो गताद्यर्थे प्रथमया (२.२.१८) । वार्तिकम् ।
उप + शल्य - सुपो धातुप्रातिपदिकयोः 2.4.71
उपशल्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उपशल्य + अम् - अतोऽम् 7.1.24
उपशल्यम् - अमि पूर्वः 6.1.107