घोषः

सुधाव्याख्या

घोष इति । घोषन्ति गावोऽत्र । घुषिर् विशब्दने’ (भ्वा प० से०) । 'हलश्च' (३.३.१२१) इति घञ् । ‘घोष आभीरपल्ल्यां स्याद्गोपालध्वनिघोषके । कांस्ये चाम्बुदनादे ना घोषा मधुरिकौषधौ ॥