पक्कणः

सुधाव्याख्या

पक्कण इति । पचन्ति । क्विप् (३.२.१७८) । कणन्ति । कण शब्दे’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । पचः कणा यत्र । पाककलहाद्येव प्रधानं तत्र नान्यत् ॥


प्रक्रिया

धातुः - डुपचँष् पाके , कणँ शब्दे


डुपचँष् पाके
पच् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
पच् + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
पच् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पच् - वेरपृक्तस्य 6.1.67
कणँ शब्दे
कण् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कण् + अच् नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
कण् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पच् + सु + कण + सु - अनेकमन्यपदार्थे 2.2.24
पच् + कण - सुपो धातुप्रातिपदिकयोः 2.4.71
पक् + कण - चोः कुः 8.2.30
पक्कण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पक्कण + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पक्कण + रु - ससजुषो रुः 8.2.66
पक्कण + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पक्कणः - खरवसानयोर्विसर्जनीयः 8.3.15