पटलम्

सुधाव्याख्या

अथेति । पटं लाति । ला दाने (अ० प० अ०) । ‘आतो ऽनुप- (३.२.३) इति कः । पटति उदकं वा । ‘पट गतौ (भ्वा० प० से०) । अन्तर्भावितण्यर्थ: । वृषादिः (उ० १.१०६) । ‘पटलं तिलके नेत्ररोगे छदिषि संचये । पिटके परिवारे च' इति हैमः ।