छदिः

सुधाव्याख्या

छादयति । 'छद अपवारणे चुरादिः । अर्चिशुचि' (उ० २.१०८) इतीसिः । ‘इस्मन् (६.४.९७) इति ह्रस्वः । –‘साहचर्यात् सान्तं क्लीबम् इति मुकुटः । तन्न । 'छदिः स्त्रियाम् इति लिङ्गानुशासनसूत्रात् ॥


प्रक्रिया

धातुः - छदँ अपवारणे


छद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छद् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
छद् + इ - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
छाद् + इ - अत उपधायाः 7.2.116
छाद् + इ + इसि – अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः (२.१०८) । उणादिसूत्रम् ।
छाद् + इसि - णेरनिटि 6.4.51
छद् + इस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, इस्मन्त्रन्क्विषु च 6.4.97
छदिस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
छदिस् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छदिस् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
छदिरु - ससजुषो रुः 8.2.66
छदिर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छदिः - खरवसानयोर्विसर्जनीयः 8.3.15