विहङ्गिका

सुधाव्याख्या

- अथेति । विहङ्गस्य प्रतिकृतिः । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । विहायसा गच्छति वा । ‘गमश्च' (३.२.४७) इति खच् । ‘विहायसो विह च’ ‘खच्च डिद्वाच्यः' (वा० ३.२.३८) । यावादित्वात् (५.४.२९) कन् । मुकुटस्तु । 'विहङ्गमा’-इति पठति ॥