मञ्जूषा

सुधाव्याख्या

- मञ्जति, अत्र वा । ‘टु मस्जो शुद्धौ' (तु० प० अ०) । ‘मस्जेर्नुम् च' (उ० ४.७७) इत्यूषन् । यत्तु–द्विजकारः इति मुकुटः । तन्न । ‘मस्जेरन्त्यात्पूर्वो नुम्' (१.१.४७ सूत्रे) इति वार्तिकविरोधात् ॥