पञ्चालिका

सुधाव्याख्या

- पेति । पञ्चभिर्वर्णैरल्यते । ‘अल भूषणादौ' (भ्वा० प० से०) । घञ् (३.३.१९) । स्वार्थे कन् (ज्ञापि० ५.४.५) । टाप् (४.१.४) । ‘प्रत्ययस्थात्-' (७.३.४४) ‘इतीत्वम् । ‘संज्ञायाम्' (३.३.१०९) इति ण्वुल् वा । संज्ञापूर्वकत्वान्न वृद्धिः । ‘पाञ्चालिका' इति पाठे पञ्चालदेशे भवा । ‘जनपदतदवध्योश्च' (४.२.१२४) इति वुञ् । आदिवृद्धि: (७.२.११७) । ‘पाञ्चालिका स्त्रियां वस्त्रपुत्रिकागीतिभेदयोः' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


अलँ भूषणादौ
अल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पञ्च + अल् + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19
पञ्च + अल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पञ्च + आल - अत उपधायाः 7.2.116
पञ्चाल - अकः सवर्णे दीर्घः 6.1.101
पञ्चाल + कन् – ज्ञापि ५.४.५
पञ्चाल + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पञ्चालक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
पञ्चालक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
पञ्चालका - अकः सवर्णे दीर्घः 6.1.101
पञ्चालिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
पञ्चालिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पञ्चालिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पञ्चालिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68