विवर्णः

सुधाव्याख्या

- वीति । विगतो व यस्य यस्माद्वा । ‘वर्णो द्विजादौ शुक्लादौ स्तुतौ रूपयशोऽक्षरे' इति विश्वः ॥


प्रक्रिया

धातुः -


वि + वर्ण + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
वि + वर्ण - सुपो धातुप्रातिपदिकयोः 2.4.71
विवर्ण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विवर्ण + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विवर्ण + रु - ससजुषो रुः 8.2.66
विवर्ण + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विवर्णः - खरवसानयोर्विसर्जनीयः 8.3.15