क्षुल्लकः

सुधाव्याख्या

- क्षुधं लाति । क: (३.२.३) स्वार्थे कन् (उ० २.३२) वा । यद्वा क्षुणत्ति, क्षुद्यते वा । 'क्षुद क्षोदे' (रु० उ० अ०) । ‘स्फायितञ्चि-' (उ० २.१३) इति रक् । कपिलिकादिः (८.२.१८) । यद्वा क्षुधा लक्यते । 'लक आस्वादने' () । ‘पुंसि-’ (३.३.११८) इति घः । कवर्गद्वितीयादिरपि । ‘खुल्लकस्त्रिषु नीचेऽल्पे' इति रभसात् । खदनम् । ‘खद हिंसायाम्' (भ्वा० १० मे) । सम्पदादिः (वा० ३.३.१०८) । पृषोदरादिः (६.३.१०९) । खुदं लाति । क्वुन् (उ० २.३२) ॥


प्रक्रिया

धातुः -


क्षुधं लाति
ला आदाने
क्षुध + ला + क - आतोऽनुपसर्गे कः 3.2.3
क्षुध + ला + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
क्षुध + ल् + अ - आतो लोप इटि च 6.4.64
क्षुध + ल् + कन् – उणादिसूत्रम् । २.३२
क्षुल्लक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्षुल्लक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षुल्लक + रु - ससजुषो रुः 8.2.66
क्षुल्लक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षुल्लकः - खरवसानयोर्विसर्जनीयः 8.3.15