इतरः

सुधाव्याख्या

- इना कामेन तीर्यते । ‘तॄ' (भ्वा० प० से०) । ‘ऋदोरप्’ (३.३.५७) । इतं गमनं करोति वा । ‘तत्करोति-' (वा० ३.१.२६) इति णिच् । यद्वा इतेन ज्ञानेन क्षीयते । ‘प्रातिपदिकाद्धात्वर्थे' (चु० सू०) इति णिच् । बाहुलकादरः । यद्वा 'इ' इत्यव्ययमपकर्षे । ‘द्विवचन-' (५.३.५७) इति तरप् । द्रव्य प्रकर्षत्वान्नामुः ॥