वैणविकाः

सुधाव्याख्या

- वेणोर्विकारः । ‘ओरञ् (४.३.१३९) । वैणवं शिल्पमस्य । ठक् (४.४.५५) ॥


प्रक्रिया

धातुः -


वेणु + ङस् + अञ् - ओरञ् 4.3.139
वेणु + अञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
वेणु + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वेणो + अ - ओर्गुणः 6.4.146
वेणव् + अ - एचोऽयवायावः 6.1.78
वैणव - तद्धितेष्वचामादेः 7.2.117
वैणव + ठक् - शिल्पम्‌ 4.4.55
वैणव + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वैणव + इक् + अ - ठस्येकः 7.3.50
वैणव + इक - यस्येति च 6.4.148
वैणविकाः