ग्लहः

सुधाव्याख्या

- ग्लह्यते अनेन । ‘ग्लहू आदाने' (भ्वा० आ० से०) । ‘पुंसि-' (३.३.११८) इति घः । ‘हलश्च' (३.३.१२१) इति घञ् वा । संज्ञापूर्वकत्वान्न वृद्धिः । गृह्यते वा । ‘अक्षेषु ग्लहः' (३.३.७०) इति साधुः ॥