देवनः

सुधाव्याख्या

- दीव्यन्ति येन । ‘करणा-' (३.३.११७) इति ल्युट् । 'देवनं व्यवहारे स्याज्जिगीषाक्रीडयोरपि । अक्षेषु देवनः प्रोक्तः' (इति विश्वः) ॥