अक्षः

सुधाव्याख्या

- अक्षा इति । अक्षति । ‘अक्षू व्याप्तौ' (भ्वा० प० से०) । अच् (३.१.१३४) । ‘अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके । रुद्राक्षेन्द्राक्षयोः सर्वे विभीतकतरावपि । चक्रे कर्षे पुमान् क्लीबं तुत्थे सौवर्चलेन्द्रिये' (इति मेदिनी) ॥