विषयः

सुधाव्याख्या

विसिनोति । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । पचाद्यच् (३.१.१३४) । ‘परिनिविभ्य:- (८.३.७०) इति षत्वम् । –विसीयन्तेऽत्रेति, ‘एरच्' (३.३.५६) इति विग्रहे तु मूर्धन्योऽनुपपन्नः । ‘सितसय-’ (८.३.७०) इति क्ताजन्तयोः सूत्रेऽनुवादात् । ’विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः । शब्दादौ जनपदे च' इति हैम: ॥