भारतम्

सुधाव्याख्या

लोक इति । अयं जम्बूद्वीपनवमांशः । भरतस्य राज्ञ इदम् । तस्येदम्' (४.३.१२०) इत्यण् । ‘महर्षिव्यासरचिते जम्बूद्वीपे च भारतम्’ इति रभसः । वृष्यते ’वृषु सेचने' (भ्वा० प० से०) । ‘भयादीनामुपसंख्यानम्’ (वा० ३.३.५६) इत्यच् । ‘पुंनपुंसकयोर्वर्षं जम्बूद्वीपाब्दवृष्टिषु' इति रुद्रः । ‘वर्षं स्थानं विदुः प्राज्ञा इमं लोकं च भारतम्' इति भारविः । ‘उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र संततिः ‘वर्षोंऽस्त्री भारतादौ च जम्बूद्वीपाब्दवृष्टिषु । एकम् भारतवर्षस्य ।