विष्टपम्

सुधाव्याख्या

विशन्त्यत्र । ‘विश प्रवेशने’ (तु० प० अ०) । विटपविष्टपविशिपोलपाः’ (उ० ३.१४५) । पादिपाठे तु-पिष्यते पिश्यते, वात्र । ‘पिश गतौ । पिष्लृ सञ्चूर्णने (रु० उ० अ०) वा । (भुवनं) पिष्टपः पुमान्’ इति बोपालितः ।