जगत्

सुधाव्याख्या

यत्तु-जङ्गम्यते-इति स्वामिना विगृहीतम् । यच्च पुनः पुनर्वृद्धिक्षयो गच्छति-इति मुकुटेन । तन्न । ’वर्तमाने बृहत्-' (उ० २.८४) इति सूत्रे यङर्थस्य वृत्तिकृद्भिरनुक्तेः । गत्यर्थानां कौटिल्य एव यङ्विधानाच्च । ‘जगत् स्याद्विष्टपे क्लीबं, वायौ ना, जङ्गमे त्रिषु ॥ ‘एकं महाभूतं पृथ्वी, पञ्चमहाभूतेन्द्रियविषयात्मकं तु जगत्' इति पृथ्वीजगतोर्भेदः ।