चामीकरम्

सुधाव्याख्या

चमीकरे आकरे भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । यद्वा चमनम् । ‘चमु अदने' (भ्वा० प० से०) । ‘इञजादिभ्यः' (वा० ३.३.१०८) । ‘अनाचमेः’ (७.३.३४) इति आङोऽविवक्षितत्वाद्वृद्धिः । ‘कृदिकारात्-' (ग० ४.१.४५) इति ङीष् । चामीं करोति । ‘कृञो हेतु-' (३.२.२०) इति टः ॥


प्रक्रिया

धातुः -


चमीकर + ङि + अण् - तत्र भवः 4.3.53
चमीकर + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
चमीकर + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चमीकर् + अ - यस्येति च 6.4.148
चामीकरम् - तद्धितेष्वचामादेः 7.2.117
x000D