अक्षताः

सुधाव्याख्या

क्षणनम् । ‘क्षणु हिंसायाम्' (त० उ० से०) ‘नपुंसके भावे क्तः’ (३.३.११४) । न क्षतं येषां ते । चो भिन्नक्रमः । अक्षताश्च पुंभूम्नि, इत्यर्थः । मुकुटस्तु-‘अक्षतम्’ इति पठित्वा ‘क्षणु हिंसायाम्' (तु० उ० से०) । कर्मणि क्तः (३.२.१०२) । क्षतं खण्डितम् । न क्षतमक्षतम् । इति विगृह्य । ते (लाजाः) नित्यपुंलिङ्गा नित्यबहुवचनान्ताश्च–इति व्याचख्यौ । ‘अक्षतं न द्वयोः पण्डे लाजेषु, त्रिष्वहिंसिते । यवेऽपि क्वचित्' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


क्षणुँ हिंसायाम्
क्षण् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षण् + क्त - नपुंसके भावे क्तः 3.3.114
क्षण् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
क्षत - अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति 6.4.37
नञ् + क्षत + सु - नञ्‌ 2.2.6
नञ् + क्षत - सुपो धातुप्रातिपदिकयोः 2.4.71
न + क्षत - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अक्षत - नलोपो नञः 6.3.73
अक्षत + जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अक्षत + अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
अक्षतास् - प्रथमयोः पूर्वसवर्णः 6.1.102
अक्षतारु - ससजुषो रुः 8.2.66
अक्षतार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अक्षताः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D