अभ्यूषः

सुधाव्याख्या

अभ्यूषति । अभ्यूषते वा । ‘ऊष रुजायाम्' (भ्वा० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । घञ् (३.३.१८) वा । ‘तोक्मं हरितो यवोऽभ्यूषः' इति वोपालितात् ह्रस्वादिः (स्वमध्य:) अपि । तत्र ‘उष दाहे' (भ्वा० प० से०) इति धातुर्बोध्यः । अस्मादेवाचि (३.१.१३४) ‘अभ्योषः' अपि, इत्येके ॥