मसृणम्

सुधाव्याख्या

मस्यति । ‘मसी परिणामे' (दि० प० से०) । बाहुलकादृणः । यद्वा समृणोति । ‘ऋणु गतौ’ (त० उ० से०) । ‘इगपध-' (३.१.१३५) इति कः । पृषोदरादिः (६.३.१०९) । ‘मसृणोऽकर्कशे स्निग्धे त्रिषु मायां तु योषिति' इति विश्वः (मेदिनी) ॥