विजिलम्

सुधाव्याख्या

विजनम् । ‘ओविजी भयचलनयोः’ (तु० आ० से०) । ‘इगुपधात् कित्' (उ० ४.१२०) इतीन् । विजिं लाति । ‘ला दाने' (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः ॥