शरावः

सुधाव्याख्या

अस्त्रीति । शरणम् । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘ॠदोरप्’ (३.३.५७) । शृणाति वा । अच् (३.१.१३४) । शरं शराद्वावति । अण् (३.२.१) । अच् (३.१.१३४) वा । (सरावः) दन्त्यादिरपि-इति मुकुटः ॥