कंसः

सुधाव्याख्या

कमिति । कम्यते । 'कमु कान्तौ’ (भ्वा० आ० से०) । ‘आयादयः-’ (३.१.३१) इति णिङ् न । वृतॄवदिहनिकमिकषिभ्यः सः’ (उ० ३.६२) । ‘कंसोऽस्त्री तैजसद्रव्ये कांस्ये मानेऽसुरे तु ना’ (इति मेदिनी) ॥