वर्धमानकः

सुधाव्याख्या

वर्धते । ‘वृधु वृद्धौ’ (भ्वा० आ० से०) । शानच् । (३.२.१२४) । शप् (३.१.६८) । मुक् (७.२.८२) । ‘संज्ञायां कन्’ (५.३.७५) ॥


प्रक्रिया

धातुः -


वृधुँ वृद्धौ
वृध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृध् + शानच् - लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124
वृध् + आन - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वर्ध् + आन - पुगन्तलघूपधस्य च 7.3.86
वर्ध् + आन + शप् - कर्तरि शप्‌ 3.1.68
वर्ध् + आन + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वर्ध् + मुक् + आन + अ - आने मुक् 7.2.82
वर्ध् + म् + आन + अ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर्धमान + कन् - संज्ञायां कन् 5.3.75
वर्धमान + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वर्धमानक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वर्धमानक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर्धमानक + रु - ससजुषो रुः 8.2.66
वर्धमानक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर्धमानकः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D