अनृतम्

सुधाव्याख्या

अव्रिति । न ऋतम् । ‘शुनो वृत्तिः स्मृता सेवा गर्हितं तद्द्विजन्मनाम् । हिंसादोषप्रधानत्वादनृतं कृषिरुच्यते’ इति । ‘अनृतं कृषावसत्ये च’ इति रुद्रः । ‘प्रमृतम्’ इति तु सभ्यः पाठः-इति स्वामी । ‘प्रमृतं कर्षणं स्मृतम्’ (४.५) इति मनुः ॥