ऋतम्

सुधाव्याख्या

अर्यते । ऋच्छति वा । ‘निष्ठा’ (३.२.१०२) इति ‘गत्यर्था-’ (३.४.७२) इति वा क्तः । ‘ऋतमुञ्छशिलं स्मृतम्’ (४.५) इति मनुः । ‘पुमानुञ्छः शिलमृतम्’ इति वोपालितः ॥