शिलम्

सुधाव्याख्या

शिलनम् । ‘शिल उञ्छे’ (तु० प० से०) । कः (वा० ३.३.५८) घञ् (३.३.१८) वा । संज्ञापूर्वकत्वान्न गुणः । ‘उञ्छः कणश आदाने कणिशाद्यर्जनं शिलम्’ इति यादवः ॥