रुचकम्

सुधाव्याख्या

रोचतेऽनेन । ‘रुच दीप्तावभिप्रीतौ च’ (भ्वा० आ० से०) । क्वुनु (उ० २.३२) । ‘रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्यद्रव्येऽपि कटकेऽपि च’ | (इति मेदिनी) ॥


प्रक्रिया

धातुः -


रुचँ दीप्तावभिप्रीतौ च
रुच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रुच् + क्वुन् – उणादि २.३२
रुच् + वु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रुच् + अक - युवोरनाकौ 7.1.1
रुचकम्
x000D