वंशरोचना

सुधाव्याख्या

रोचते । नन्द्यादिः (३.१.१३४) । वंशस्य रोचना । ‘स्याद्वंशरोचना वांशी तुकाक्षीरी तुकाशुभा । त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी तु वैणवी' इति शाश्वतः ॥