सव्येष्ठा

सुधाव्याख्या

सव्ये वामे तिष्ठति । ‘सव्ये स्थश्छन्दसि’ (उ० २.१०१) इत्यृन् डिच्च । ‘स्थास्थिन्स्थृणाम्' (८.३.९७) इति वक्तव्यात् षत्वम् । ‘स्थास्थिन्यूनाम्’ ‘इति पाठे तु सुषामादित्वात्' (८.३.९८) षत्वम् । हलदन्तात् (६.३.९) इत्यलुक् । ‘सव्येष्ठः’ इत्यदन्तोऽपि । ‘प्राजिता दक्षिणस्थश्च सादी सारथिरुच्यते । सूतः क्षत्ता नियन्ता च यन्ता सव्येष्ठ एव च' इत्यमरमाला ॥


प्रक्रिया

धातुः -


ष्ठा गतिनिवृत्तौ
स्था - धात्वादेः षः सः 6.1.64
सव्य + ङि + स्था + ऋन् - सव्ये स्थश्छन्दसि (२.१०१) । उणादिसूत्रम् ।
सव्य + ङि + स्था + ऋ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सव्य + ष्ठा + ऋ - सुपो धातुप्रातिपदिकयोः 2.4.71
सव्य + ष्ठा + ऋ - आदेशप्रत्यययोः 8.3.59
सव्येष्ठृ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः ।
सव्येष्ठृ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सव्येष्ठृ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सव्येष्ठ् + अनङ् + स् - ऋदुशनस्पुरुदंसोऽनेहसां च 7.1.94
सव्येष्ठ् + अन् + स् - हलन्त्यम् 1.3.3,उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सव्येष्ठ् + आन् + स् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
सव्येष्ठ् + आन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
सव्येष्ठा - नलोपः प्रातिपदिकान्तस्य 8.2.7