दक्षिणस्थः

सुधाव्याख्या

दक्षिणे तिष्ठति । ‘सुपि-' (३.२.४) इति कः ॥ रथं कुटुम्बयितुं शीलमस्य । ‘कुटुम्ब धारणे’ (चु० अ० से०) । ‘सुपि-’ (३.२.७८) इति णिनिः । यद्वा रथ एव कुटुम्बम् । रथकुटुम्बमस्यास्ति । इनिः (५.२.११५) ॥