स्यन्दनारोहाः

सुधाव्याख्या

स्यन्दनमारोहन्ति । ‘रुह बीजजन्मनि प्रादुर्भावे च’ (भ्वा० प० अ०) । अण् (३.२.१) ॥


प्रक्रिया

धातुः -


रुहँ बीजजन्मनि प्रादुर्भावे च
रुह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्यन्दन + अम् + आ + रुह् + अण् - कर्मण्यण् 3.2.1
स्यन्दन + आ + रुह् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
स्यन्दन + आ + रुह् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स्यन्दन + आ + रोह - पुगन्तलघूपधस्य च 7.3.86
स्यन्दनारोह - अकः सवर्णे दीर्घः 6.1.101
स्यन्दनारोह + जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्यन्दनारोह + अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
स्यन्दनारोहास् - प्रथमयोः पूर्वसवर्णः 6.1.102
स्यन्दनारोहारु - ससजुषो रुः 8.2.66
स्यन्दनारोहार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्यन्दनारोहाः - खरवसानयोर्विसर्जनीयः 8.3.15