चक्रवर्ती

सुधाव्याख्या

चेति । चक्रे भूमण्डले राजमण्डले वा वर्तितुं शीलमस्य । ‘सुपि-’ (३.२.७८) इति णिनिः । ‘चक्रं गणे चक्रवाके इति विश्वः । यद्वा चक्रं सैन्यं वर्तयितुं सर्वभूमौ चालयितुं शीलमस्य । अवश्यं वा चक्रं वर्तयति । ‘आवश्यका-’ (३.३.१७०) इति णिनिः ॥