सार्वभौमः

सुधाव्याख्या

सर्वभूमेरीश्वरः । ‘तस्येश्वरः’ (५.१.४२) इत्यण् । अनुशतिकादिः (७.३.२०) । ‘सार्वभौमस्तु दिङ्नागे सर्वपृथ्वीपतावपि’ इति विश्वमेदिन्यौ ॥