अधीश्वरः

सुधाव्याख्या

रेति । संलग्नोऽन्त एकदेशोऽस्याः । ‘प्रादिभ्यो धातुजस्य-’ (वा० २.२.२४) इति समासः । समन्तायाः स्वदेशाव्यवहितभूमेरिमे राजानः । ‘तस्येदम्’ (४.३.१२०) इत्यण् । प्रणता अशेषाः सामन्ताः स्वदेशानन्तरराजा यस्य । अधिक ईश्वरः ॥


प्रक्रिया

धातुः -


अधि + ईश्वर + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (२.२.२४) । वार्तिकम् ।
अधि + ईश्वर - सुपो धातुप्रातिपदिकयोः 2.4.71
अधीश्वर - अकः सवर्णे दीर्घः 6.1.101
अधीश्वर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अधीश्वर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अधीश्वर + रु - ससजुषो रुः 8.2.66
अधीश्वर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अधीश्वरः - खरवसानयोर्विसर्जनीयः 8.3.15