बलिः

सुधाव्याख्या

बल्यते । ‘बलं वधे, दाने’ । इन् (उ० ४.११८) । ‘बलिदैत्यप्रभेदे च करचामरदण्डयोः । उपहारे पुमानस्त्री जरया श्लथचर्मणि । गृहदारुप्रभेदे च जठरावयवेऽपि च’ (इति मेदिनी) ॥ (‘अर्थागमो भवेदायो भागधेयो बलिः करः’ इति हलायुधः) ।