शुल्कः

सुधाव्याख्या

घेति । घट्टादौ देयम् । शुल्क्यते । ‘शुल्क अतिसर्जने’ (चु० प० से०) । घञ् (३.३.१९) । ‘शुल्कं घट्टादिदेये स्याद्वरादर्थग्रहेऽस्त्रियाम्’ (इति मेदिनी) । मुकुटस्तु - शलति प्रतिबन्धोऽनेन । ‘शुल्कवल्कोल्काः’ इति निपातः -इत्याह । तन्न । उज्ज्वलदत्तादिषु ‘शुल्कवल्कोल्काः’ (उ० ३.४२) इति पाठस्य दर्शनात् । धातुपाठे ‘शुल्क’ धातोर्दर्शनाच्च ॥