पार्थिवः

सुधाव्याख्या

'पृथिव्या ईश्वरः’ । सर्वभूमिपृथिवीभ्यामणञौ’ इत्यनुवर्तमाने ‘तस्येश्वरः’ (५.१.४२) इत्यञ् । ‘पार्थिवो नृपतौ भूमिविकारे पार्थिवोऽन्यवत्’ (इति विश्वः) ‘पार्थिवो नृपे । पार्थिवी स्यात्तु सीतायां पृथिव्या विकृतौ त्रिषु’ (इति मेदिनी) ॥