क्ष्माभृत्

सुधाव्याख्या

क्ष्मां बिभर्ति । क्विप् (३.२.७६) । तुक् (६.१.७१) । ‘क्ष्माभुक्’ । इति पाठे क्ष्मां भुनक्ति पालयति । क्विप् (३.२.७६) ॥


प्रक्रिया

धातुः -


डुभृञ् धारणपोषणयोः
भृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
क्ष्मा + अम् + भृ + क्विप् - क्विप् च 3.2.76
क्ष्मा + भृ + क्विप् - सुपो धातुप्रातिपदिकयोः 2.4.71
क्ष्मा + भृ + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्ष्मा + भृ - वेरपृक्तस्य 6.1.67
क्ष्माभृ + तुक् - ह्रस्वस्य पिति कृति तुक् 6.1.71
क्ष्माभृत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्ष्माभृत् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्ष्माभृत् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्ष्माभृत् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68