आप्लवव्रती

सुधाव्याख्या

आप्लवते । ‘प्लुङ गतौ’ (भ्वा०आ० अ०) । पचाद्यच् (३.१.१३४) । आप्लवश्चासौ व्रती च । ‘आप्लुतव्रती’ इति पाठे ‘गत्यर्था-’(३.४.७२) इति क्तः । मुकुटस्तुआप्लव आप्लुतं वा स्नानम् । तत्र व्रती नित्यस्नायी इत्याह॥