ऋषिः

सुधाव्याख्या

ऋषेति । ऋषन्ति जानन्ति । ‘ऋषी गतौ’ (तु० प० से०) । ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् । ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानयम्’ (इति मेदिनी) । स्त्रियां वा ङीष् (ग० ४.१.४५) ॥