परिव्राज्

सुधाव्याख्या

परित्यज्य सर्वं व्रजति । ‘व्रज गतौ’ (भ्वा० प० से०) । ‘परौ व्रजेः षः पदान्ते’ (उ० २.५९) इति क्विप् दीर्घश्च पदान्तविषये षत्वं च ।-विण्-इति तु स्वामिनः प्रमादः । उणादौ विणोऽ– प्रकृतत्वात्॥