अभिवादनम्

सुधाव्याख्या

अभिमुखीकरणार्थं वादनम् । ‘वद संदेशवचने’ चुरादिः । ल्युट् (३.३.११५) । आभिमुख्येन वाद्यते आशीः कार्यतेऽनेन इति वा । ण्यन्ताद्वदेः करणे ल्युट् (३.३.११७) ॥